________________
॥ श्रीगणेशायनमः ॥
** श्रीपुराणपुरुषोत्तमाय नमः *
अथ स्कन्दपुराणस्थ वैष्णवखण्डे द्वितीयमुत्कलखण्डम्
पुरुषोत्तम ( जगन्नाथ ) क्षेत्रमाहात्म्यम् प्रथमोऽध्यायः
ब्रह्मप्रार्थनया विष्णोराविर्भाववर्णनम्
नारायणं नमस्कृत्य नरश्चैव नरोत्तमम् | देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ मुनय ऊचुः
भगवन्सर्वशास्त्रज्ञ. सर्वतीर्थमहत्त्ववित् । कथितं यत्त्वया पूर्व प्रस्तुते तीर्थकीर्तने ॥ पुरुषोत्तमाख्यं सुमहत् क्षेत्रं परमपावनम् ॥ २ ॥ यत्राssस्ते दारवतनुः श्रीशोमानुपलीलया । दर्शनान्मुक्तिदः साक्षात्सर्वतीर्थफलप्रदः तन्नो विस्तरतोहितत्क्षेत्रवेन निर्मितम् । ज्योतिःप्रकाशोभगवान्साक्षान्नारायणः प्रभुः कथं दारुमयस्तस्मिन्नास्ते परमपूरुषः । वद, त्वं वदतां श्रेष्ठ! सर्वलोकगुरो मुने ! | श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः ।
जैमिनिरुवाच
शृणुध्वं मुनयः सर्वे रहस्यं परमं हि तत् ॥ ६ ॥
प्रथमोऽध्यायः ] * ब्रह्मणाकृत विष्णुस्तववर्णनम् *
१५३
अवैष्णवानां श्रवणे भक्तिस्तत्र न जायते । यस्य सङ्कीर्तनादेव सकलं लीयते तमः यद्यप्येष जगन्नाथः सर्वगः सर्वभावनः । स्कन्देनकथितं पूर्वं श्रुत्वाशम्भोर्मुखाम्बुजात् सन्ति क्षेत्राणि चान्यानि सर्वपापहराणि वै ॥ ८ ॥
1
एतत्क्षेत्रं परं चाऽस्यवपुभूतं महात्मनः । स्वयंवपुष्मांस्तत्रास्तेस्वनाम्नाख्यापितं हितत् तत्र ये स्थातुमिच्छन्ति तेपिसर्वेहतांहसः । किंपुनस्तत्र तिष्ठन्तोयेपश्यन्तिगदाधरम् अहोतत्परमं क्षेत्रं विस्तृतं दशयोजनम् | तीर्थराजस्य सलिलादुत्थितं वालुकाचितम् नीलाच लेनमहतामध्यस्थेनविराजितम् । एकस्तनमिव पृथ्व्याः सुदूरात्परिभावितम् वाराहरूपिणापूर्व समुद्र नृत्यवसुन्धराम् । सर्वतः सुसमां कृत्वापर्वतैः सुस्थिरीकृताम् सृष्ट्रा चराचरं सर्व तीर्थानि सरिदब्धिकान् ।
क्षेत्राणि च यथास्थानं संनिवेश्य यथा पुरा ॥ १४ ॥
ब्रह्मा विचिन्तयामास सृष्टिभारनिपीडितः । पुनरेतां क्रियांगुर्वी नारभेयकथन्त्वितिः तापत्रयाभिभूताहि मुच्यन्ते जन्तवः कथम् । एवं चिन्तयमानस्यमतिरासीत्प्रजापतेः मुक्तयेककारणं विष्णुं स्तोप्येऽहं परमेश्वरम् |
ब्रह्मोवाच
नमस्ते जगदाधार ! शङ्खचक्रगदाधर ॥ १७ ॥
याभिपङ्कजादेव जातोऽहं विश्वसृष्टिकृत् । परमार्थस्वरूपं ते त्वं वै वेत्सिजगन्मय यन्माययाजगत्सर्वं निर्मितं महदादिकम् । यन्निःश्वाससमुद्भूतं शब्दब्रह्म त्रिधाऽभवत् उपजीव्यतदेवाऽहमसृजम्भुवनानि वै । त्वत्तोनाऽन्यः स्थूलसूक्ष्मदार्थहस्वादिकिञ्चन विकारभेदैर्भगवंस्त्वमेवेदं चराचरम् । कटकादि यथा स्वर्णं गुणत्रयविभागशः ॥ २१ चष्टासृज्यं त्वमेवाऽत्र पोष्टापोप्यञ्जगत्प्रभो । आधारो प्रियमाणञ्चच धर्ता त्वंपरमेश्वर त्वत्प्रेरितमतिः सर्वश्वरते च शुभाशुभम् ।
ततः प्राप्नोति सदृशीं त्वयैव विहितां गतिम् ॥ २३ ॥ जगतोऽस्य गतिर्भर्त्ता साक्षी त्वं परमेश्वर ! चराचरगुरो ! सर्वजीवभूतकृपामय ! प्रसीदाऽऽद्यजगन्नाथ ! नित्यं त्वच्छरण्यस्य मे ॥ २४ ॥